मेक-इन-इण्डिया-एकः परिचयः मेक-इन-इण्डियाकार्यक्रमस्य उद्देश्यमस्ति-भारतस्य कृतिकोशत्वेन स्थापना। स्वदेशी-विदेशीनिवेशकेभ्यः मूलतः एकं अनुकूलं वातारवरणं प्रदातुं अभिसन्धिः कृता अस्ति। तस्माद् 125-कोटिजनसंख्याधारकं दृढभारतं एकस्मिन् विनिर्माणकेन्द्रे परिवर्त्य व्यवसायस्य अवसराः उद्भवेयुः। अनेन व्यापारे व्यापकः प्रभावः प्रपतिष्यति तथा च अस्मिन् नवाचाराय आवश्यकतत्त्वद्वयोः –नूतनमार्गः अवसराणां दोहनं वा, सुसन्तुलनाय समस्याभिः आभिमुख्यपूर्वकं निवारणं च। परन्तु मेक-इन-इण्डियाकार्यक्रमस्य प्रथमतोपादानं वस्तुतः आर्थिकविवेकस्य प्रशासनिकसुधारस्य च न्यायसङ्गतमिश्रणत्वेन दृष्टम्। अनेन इदं प्रथमावतरणं जनताजनादेशस्य- ‘एक आकाङ्क्षी भारत’ इत्यममुम् आह्वानं समर्थयति। प्राप्यमाणानि लक्ष्याणि मध्यावधेः तुलनायां विनिर्माणक्षेत्रे 12-14प्रतिशतं वार्षिकवृद्धेः लक्ष्यम्।2022 पर्यन्तं देशस्य सकलस्वदेशी-उत्पादे विनिर्माणस्य प्रतिभागितायां 16025प्रतिशतवृद्धिः। वर्ष 2022पर्यन्तं विनिर्माणक्षेत्रे 100न्यर्बुदं (मिलियन) अतिरिक्तव्यवसायसर्जनम्। ग्राम्यप्रवासि-नगरीयनिर्धनेषु समग्रविकासाय समुचितकौशलनिर्माणम्। स्वदेशीमूल्यसंवर्धनविनिर्माणयोः तकनीकिज्ञाने वृद्धिः। भारतीयविनिर्माणक्षेत्रस्य वैश्विकप्रतिस्पर्धायां वृद्धिः। विशेषतः भारतीयपर्यावरणसन्दर्भे विकासस्य स्थिरतायाः सुनिश्चितीकरणम्। सकारात्मकतथ्यानि भारतं विश्वेस्मिन् तीव्रतमगत्या प्रवर्धमानार्थव्यवस्थात्वेन स्वोपस्थितिं निश्चितीकृतवान् अस्ति। अयं देशः विश्वे तीव्रतमगत्या प्रवर्धमानासु अर्थव्यवस्थासु सम्मिलितो भविष्यति। तथा च अयं विश्वासः यत् वर्षं2020पर्यन्तं अयं विश्वे विशालोत्पादकदेशः सम्पत्स्यते। अग्रिमयोः द्वयोर्दशकयोः अत्रत्य जनसंख्या वृद्धिः उद्योगानुकूलं भविष्यति जनशक्तिश्च कार्याय सममात्रायाम् उपलब्धा भविष्यति। अन्यदेशेभ्यः तुलनायां अत्र जनशक्तौ न्यूननिवेशो भवति। अत्रत्य व्यावसायिकपरिवाराः उत्तरदायित्वमूढ्य विश्वसनीयतया व्यावसायिकरूपेण कार्यं कुर्वन्ति। स्वदेशी-विपणे अत्र प्रभावी उपभोक्तावादः प्रचलन् अस्ति। अस्मिन् देशे तकनीकि-आभियान्त्रिकीक्षमताः उपलब्धाः सन्ति तदनु वैज्ञानिक-तकनीकिसंस्थानानां योगदानं वर्तते। वैदेशिकनिवेशकेभ्यः विपणः उद्धटितः वर्तते अयं च सुष्ठुरीत्या विनियमितश्च वर्तते। जनशक्तिप्रशिक्षणम् किञ्चन उत्पादनं क्षेत्रं कुशलजनशक्तिं विना न सफलीभवति। अस्मिन्नेव क्रमे सन्तोषजनकमिदं यत् सर्वकारेण कौशलविकासाय नूतनोपायाः कल्पिताः। अनेन निश्चयेनैव व्यवसायान्वेषणार्थं ग्रामात्नगरं प्रति पलायनं विरमिष्यति नगरीनिर्धनानां अधिकं समावेशिविकासश्च सम्भविष्यति। उत्पादनक्षेत्रे दार्ढ्यं विधातुमयं एकः महत्वपूर्णः प्रयासः भविष्यति। नूतनमन्त्रालयाः कौशलविकासेन उद्यमितया च राष्ट्रियकौशलविकासे राष्ट्रियनीतौ संशोधनं आरब्धम्। अवधेयं यत् मोदीसर्वकारेण ग्रामविकासमन्त्रालयतत्वावधाने एकः नूतनः कार्यक्रमः समारब्धः। अस्य कार्यक्रमस्य नाम बीजेपीइत्स्य नायक-पण्डितदीनदयाल-उपाध्याय-इत्यस्मिन् अभिधाने अभिहितम्। नूतनप्रशिक्षणकार्यक्रमान्तर्गतं देशान्तर्गतं 1500तः2000प्रशिक्षणकेन्द्राणि स्थापितुं प्रयत्नः सम्पत्स्यते। अस्यां सम्पूर्णपरियोजनायां 2000कोटिरुप्यकाणां व्ययस्य अनुमानं वर्तते। अत्र सार्वजनिक-निजप्रतिभागिता प्रारूपतया सञ्चालयिष्यते। नूतनप्रशिक्षणकार्यक्रमान्तर्गतं युववर्गाय तेषां कौशलानां प्रशिक्षणं प्रदास्यते येषां विदेशेषु आवश्यकता वर्तते। यान् देशान् वीक्ष्य अयं कार्यक्रमः निर्मितः तेषु स्पेन् अमेरिका जापान रूस फ्रांस् चीन् ब्रिटेन् पश्चिमएशिया च सम्मिलिताः सन्ति। सर्वकारेण प्रतिवर्षं अनुमानतः त्रिलक्षयुवकान् प्रशिक्षयितुं प्रस्तावितः अनेन च 2017ईस्वीयाब्दस्यान्ते 10लक्षग्रामीणयुवकान् लाभान्वितान् कारयितुं अयं कार्यक्रमः विनिर्मितः। स्रोतः- पत्रसूचनाकार्यालयः (श्रीनिरेन्द्रदेवेन विलिखितम्)